वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम् ।
विनिश्वसन्तं ध्यायन्तं अस्वस्थमिव कुञ्जरम् ॥ ३ ॥
नवः - नूतनः ग्रहः - ग्रहणं यस्य स तथा ॥ ३ ॥
रजसा ध्वस्ताङ्गमिति। मार्गरजसेत्यर्थः । ध्वस्तानि - व्याकुलानि अङ्गानि यस्य । समुपस्थितं सूतं-सुमन्त्रं । [३] परमार्तवत्-परम- दीनः सन् ॥ ४ ॥
क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः ।
सोऽत्यन्तसुखितः, सूत ! किमशिष्यति राघवः ॥ ५ ॥
[४] क्व नु प्रदेशे अशिष्यति-अश्नातीति यावत् ॥ ५ ॥
दुःखस्यानुचितो [५] दुःखं ! सुखाईशयनोचितः ।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ।। ६ ।।
यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः ।
स वत्स्यति कथं रामः विजनं वनमाश्रितः ॥ ७ ॥
व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्याः सार्धं वन[६]मुपस्थितौ ।। ८ ।।
सुकुमार्या तपस्विन्या, सुमन्त्र! सह सीतया ।
राजपुत्रौ कथं पादैः अवरुह्य रथात् गतौ ॥ ९ ॥
- ↑ रजसा ध्वस्ताङ्गं - धूसरिताङ्गं धूतं-कम्पितं-गो.
- ↑ धूतं-ङ.
- ↑ परमार्तवत--परमार्तार्हे वच उवाच-ति.
- ↑ पादद्वयं भिन्न वाक्यम् । द्वितीयं वाक्यं काकुगर्भम् । अथ वा 'क्व नु' इत्यादि देशप्रश्नः । यद्वा --सद्य: वृक्षमूलमुपाश्रितः भविष्यति काले क्व नु वत्स्यति ? वृक्षमूलमुपाश्रितः किमशिष्यतीति वा अन्वयः ।
- ↑ नित्यं सुमन्त्र शय-ङ.
- ↑ मुपाश्रितौ-च.