पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ सर्ग:] ] नाकीचकार तथा रामः पित्रोर्वचः स्मरन् - ततः किमित्यतः - वयमित्यादि । भार्याः पुत्राः शिष्याश्च लोके साधुभिर्यथा समाख्याताः - इच्छाविनियोगाईतया, तथा सर्वे वयं सर्वप्रकारगुरोरस्य राज्ञ इति त्वमपि ज्ञातुमर्हसि ॥ १९ ॥ Mah

  • 1.

2 बने वा *" चीरवसनं, सौम्य ! कृष्णाजिनाम्बरम् । राज्ये वाऽपि ' महाराजः मां वासयितुमीश्वरः ।। २० ।। अस्तु, प्रकृते किमायातमित्यतः -वन इत्यादि । ॥ २० ॥ यावत् पितरि धर्मज्ञे गौरवं लोक 'सत्कृतम् । तावत्, धर्मभृतां श्रेष्ठ ! जनन्यामपि गौरवम् ॥ २१ ॥ 3 प्रकृतजनन्यविगर्हण मुपसंहरगति - याव पितरीत्यादि । यावत्परि- A माणक मित्यर्थः ; यत्तदेतेभ्यः परिमाणे बतुप्' तावज्जनन्यामपि गौरवम् । अतो मां त्वां च कैकेयी च माता कामवारेण नियोक्तुं शक्ता इत्येव । अतो नास्या गईणमित्यर्थः ॥ २१ ॥ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति, राघव! मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ।। २२ ।। यदेवं, अतः - एताभ्यामित्यादि । समाचरे - समाचरामीति यावत् ।। २२ ।। As 363, 6 त्वया राज्यमयोध्यायां प्राप्तव्यं लोक स "सत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवासमा || २३ ।। ' एवं कृत्वा 'महाराजः विभागं लोकसन्निधौ । व्यादिश्य च 'महातेजाः दिवं दशरथो गतः ॥ २४ ॥ लोकसन्निधाविति । मन्त्रिपुरोहितादिजनसन्निधावित्यर्थः ॥ 5

  • च॑रं द्रुमबल्कलं वसनं उत्तरीयं यस्य तम् । कृष्णाजिन अम्बर-

। अमरीयं यस्य तम् - गो. + लोकसत्क- लोकसम्मतमिति यावत् । सौम्यबसन-ङ.. 2 महाबाहो-ड धर्मह-च. सत्कृते-ङ. महाभाग:- ङ. 6 सम्मतम्-ड. 'एवमुक्ता च. 7