पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

388 रामभरतसंबादः [ अध्बोयाकाण्डः

  • सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।

संयोगा विप्रयोगान्ताः मरणान्तं च जीवितम् ॥ १६ ॥ न केवलं पुरुषस्य कालवशादनित्यत्वं, अपि तु सर्वस्यापी- त्याह – सर्व इत्यादि । क्षयान्ताः- नाशपर्यवसानः । निचया:- सङ्ग्रहाः । समुच्छ्रयाः - विद्यैश्वर्यादिकृत मौन्नत्यम् । मरणान्तं च जीवितमिति । सर्वत्र कालवशादिति शेषः । अतः कालगतिं गतो राजा न शोचनीय इत्यनुकर्षः ॥ १६ ॥ यथा फलानां पक्कानां नान्यत्र पतनात् भयम् । एवं नरस्य जातस्य नान्यत्र मरणात् भयम् ।। १७ ।। पतनादन्यत्र न भयमिति । पतनस्यैवाशक्यपरिहारत्वात् भयम् । एवं जातस्य तत एत्र हेतोः अशक्यपरिहारं मरणभयमित्यर्थः || यथाऽगारं दृढस्थूणं जीर्ण भूत्वाऽवसीदति ।

  • तथैव सीदन्ति नराः जरामृत्युवशं गताः ॥ १८ ॥

कालवशात् क्षये दृष्टान्तान्तरं -- यथाऽगारमित्यादि । १८ ।।

  • निचया: - धनसंचयाः सर्वे क्षयान्ता:-क्षयपर्यवसायिन:- चोरेण कामेन राशा वा

नश्यन्तीत्यर्थ: अस्मिन् श्लोके पादत्रयोक्तार्थत्रयं दृष्टान्तार्थ, तुरीयपादश्च दान्तिकं - गो. प्रथमश्लोके वनगमनं न मया स्वतन्त्रेण कृतं, अपि त्वीश्वरकृत- मित्युक्तम् । द्वितीयश्चं के दशरथमरणं च कालकृतं, अत: तत्रापि न शोचनीय मित्युक्तम् । दृष्टान्तं प्रश्नपति- यथेत्यादिना-गो. यथा पक्कानां फलानां- तालादिजन्यानां पतनादन्यत्र - अन्यस्मिन् काले मयं-काकादिपक्षिभक्षणभीतिर्नास्ति, तथा जातस्य नरस्य मरण व मध्ये लोकादन्यत्र भयं नास्ति । पतेन मर्त्यलोकादन्यत्र नयने यसः कर्तव्य इति सूचितम् - रा. भूत्योपसीदति-च. 2 तथाऽनसीदम्ति-च. 1