पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

404 [अयोध्याकाण्ड: भरतप्रार्थना शिरसा त्वाऽमियाचेऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव *महेश्वरः ॥ ३१ ॥ त्वा – त्वाम् ॥ ३१ ॥ 1 अथवा पृष्ठतः कृत्वा वनमेव भवानितः ।। गमिष्यति, गमिष्यामि भवता सार्धमप्यहम् ॥ ३२ ॥ पृष्ठतः कृत्वा - तिरस्कृत्येति यावत्, मत्प्रार्थनामिति शेषः । इतोऽपि वनमेवेति । जनसम्बाघभीत्या अस्माद्वनादपि बनान्तर- मित्यर्थः ॥ ३२ ॥ तथा हि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः । न चैव चक्रे गमनाय सच्चवान् मतिं पितुस्तद्वचने 'व्यवस्थितः ॥ ३३ ॥ ताम्यता - ग्लायता ॥ ३३ ॥ तदद्भुतं स्थैर्यमवेक्ष्य राघवे 8 समं जनो हर्षमवाप दुःखितः । न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ।। ३४ ।। तत् स्थैर्य–पितृवचनस्थितिस्थैर्यम् । दुःखहर्षयोर्युगपत्प्रवृत्ति निमित्तं स्वयमेव कविर्थ्याकरोति —न यातीत्यादि ॥ ३४ ॥

  • महेश्वरः– विष्णुः- गो. भूतेशत्वात्, पशुपतिस्वाच्च — शिवो वा। † इतः—

राज्यात् इति वा । + गमनाय मतिं इत्यन्वयः । § दुःखितः जन: समं - युगपत् हर्षमवाप | । अथैतत्-ड. झ. 2 प्रतिष्ठितः - ङ.