पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ सर्ग: ] पुनरेवं ब्रुवाणं तं भरतं राघवोऽब्रवीत्.

  • तमृत्विजो नैगम यूथवल्लभा

तदा विसंज्ञाश्रुकलाश्च मातरः । तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह । ॥ ३५ ॥ इत्यापें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षडुत्तरशततमः सर्गः 405 निगमे – पुरे भवाः - – नैगमाः – पौराः, 'निगमो निश्चये वे पुरेपथ वणिक्पथे' वैजयन्ती, नैगमयूथानां वल्लभास्तथा । विसंज्ञाः - विचित्ताः, अश्रुकला:- अश्रुप्रचुराश्च तथा । मृग (३५) मानः सर्गः ॥ ३५ ॥ इति श्रीमद्रामायणामृतकतकटी कायां अयोध्याकाण्डे षडत्तरशततमः सर्गः सप्तोत्तरशततमः सर्गः [रामप्रतिवचनम् ] 1 पुनरेवं ब्रुवाणं तं भरतं ' लक्ष्मणाग्रजः । प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ॥ १ ॥ अथ भरतोक्तं राजनि अधर्मं परिहरन् रामः राजनियोग एव परमो धर्म इति पुनश्च प्रतिष्ठापयति । पुनरित्यादि ॥ १ ॥ उपपन्नमिदं वाक्यं यत् त्वमेवमभाषथाः । +जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २ ॥ उपपन्नमिति । ज्येष्ठपुत्रप्रतिपत्तिमूलं उक्तवचनजातमित्यर्थः ॥ § पुरा, भ्रातः ! पिता नः सः मातरं ते समुद्रहन् । मातामहे समाश्रौषीत् राज्यशुल्कमनुत्तमम् || ३ ||

  • तं भरतमित्यन्वयः । ↑ सह — भरतेन सह ययाचिरे । + जातः पुत्रः

त्वमित्यन्वयः । § काममोहेन पित्रा कृतमिति पितरं निन्दन्तं भरतं प्रति रामः मोहहेतुप्रसक्तिरेव नास्तीति दुष्परिहरं हेस्वन्तरमाह - पुनरित्यादिना - गो. 1 भरताग्रजः - ङ. 2 तिसत्कृतः - ङ.