पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ सर्ग:] प्रत्यक्षं या तदारधेयं परोक्षं पृष्ठतस्तथा प्राशनम्; अथापि तदुद्देशेन दत्तमन्नं लोकान्तरे तमुपतिष्ठति इहान्येन मुक्तपपीत्यत्र तदपि तर्कहतमित्याह – यदीत्यादिना । यद्यन्यभुक्तानं अन्यदेहं गच्छेत् तदा प्रवसतः - - देशान्तरगतान् उद्दिश्य श्राद्धमेव दद्यात्, प्राप्तकाले लिङ्, तथा दानमेवोचितम्, न तु तत्पथ्यशनं—— तस्मै दीयमानपाथेयनन्याय्यं भवेत् ॥ १५ ॥ 415

  • दानसंवनना होते ग्रन्था मेधाविभिः कृताः ।

यजस्व देहि दीक्षस्त्र तपस्तव्यस्त्र संत्यज । १६ ।। अर्थरूपपित्रर्थ श्राद्धान्नदानदृष्टान्तेन देवार्थप्रदानमपि मिथ्या, तर्हि तस्प्रतिपादकागमप्रामाण्यादेव तदुच्यमानफलं सत्यं भविष्यतीत्या - शङ्कय, अनुभवादेव मिथ्याचे सिद्धे वचनं वार्तादिना जीवनोपायाशक्तैः कैश्चिन्मेधाविभिः पामरजनप्रतारणेन जीवनोपायतया कृतं इत्याह- दानेत्यादि । संवननं - कार्मणं वशीकरणम् । घनिभिः दानार्थं वशीकरणोपाया एव हि केवलं, यजस्व – देवपूजां कुरु, देहि — अन्नदानादिदानं कुरु, दीक्षस्व -- यागं कुरु, तपः तप्यस्व--संपादय, सन्त्यज--प्रत्रन इत्येवंपराः ग्रन्थाः-- वेदशास्त्रलक्षणा: कैश्चिन्मेधाविभिः मेघाशब्दपरिश्रमकवित्व वश्च नाचातुरीसाह सादिभ्यः कृताः ॥ १६ ॥ -

  • एवं एकत्र वैदिककर्मणि फलव्यभिचारदर्शनात सर्वत्रापि वैदिके न फळप्रसक्ति-

रिस्याई -दानसंवनना इत्यादिना - गो. + संस्यज-अभेषणादीन् सम्मक् त्यज - गो. संत्यज- इत्येते मन्था इत्यन्वयः |