पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८ सर्गः]
17
बाष्पं स्रवन्ती सीता तु नैव मां किञ्चिदब्रवीत्


उचितानुचितमनवेक्ष्य सर्वलोकविरुद्धं समारब्धं राघवस्य विवासनम् । तच्च तस्य, अस्माकं च सर्वेषां सङ्क्रोशं-दुःखं जनयिष्यति ॥ २८ ॥

अहं तावन्महाराजे पितृत्वं नोपलक्षये ।
भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ २९ ॥

 तस्मादहं तावन्महाराजे पितृत्वं नोपलक्षये । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पधं प्रतिपन्नस्य परित्यागो विधीयते ॥' इति शास्त्रेणेति शेषः । ’ज्येष्ठो भ्राता पितृसमः' इति न्यायेन धार्मिके ज्येष्ठ एव पित्रादिबुद्धिरित्याह--भ्रातेत्यादि । भर्ता-स्वामी ॥ २९ ॥

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते [१].रतम् ।
[२]सर्वलोकोऽनुरज्येत [३] कथं त्वाऽनेन कर्मणा ॥ ३० ॥

 अन्यदप्याह-सर्वलोकेत्यादि । त्यक्त्वाऽवस्थितं त्वामनेन क्रूरेण कर्मणा हेतुना सर्वलोकः कथमनुरज्येत ॥ ३० ॥

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् ।
सर्वलोकं विरुध्येमं कथं राजा भविष्यति ॥ ३१ ॥

 यदेवं सर्वलोको विरुध्येत, तत् कथं राजा भविष्यति पिता । इत्यब्रवील्लक्ष्मण इति शेषः ॥ ३१ ॥

जानकी तु, महाराज! निश्वसन्ती मनस्विनी ।
भूतोपहतचित्तेव विष्ठिता [४][५] विस्मिता स्थिता ॥ ३२ ॥


  1. रते-ङ. च
  2. अनेन कर्मणोपलक्षितं त्वा-गो. पूर्वं सर्वलोकहिते रते त्वयि इदानीं रामं
    त्यक्त्वा स्थिते सति-ति.
  3. कथं चानेन-ङ. च.
  4. विस्मृता – विस्मृतसर्वप्रयोजना-ति
  5. विस्मृता-च.