पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततस्संचिन्त्य सर्व स त्वग्याश्रममुपागमत् 8 1 तस्मादन्यत्र 'गच्छामः इति संचिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ ४ ॥ सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः । तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ ५॥ प्रत्यपद्यतेति । राममिति शेषः ॥ ५ ॥ ११७ सर्गः ] स्वयमातिथ्यमादिश्य 'सर्वमस्य सुसत्कृतम् । सौमित्रिं च ' महाभागं सीतां च समसान्त्वयत् ॥ ६ ॥ 5 स्वयमिति । वृद्धां पत्नीम्क्लशयन् आतिथ्यं आदिश्य-विज्ञाप्य तत्सर्वमातिथ्यं सुसत्कृतं कृत्वा असान्त्वयत् - अप्रणयत् ॥ ६ ॥ --

  • 6

पत्नीं च * तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ ७ ॥ तदनन्तरं अनुप्राप्तां वृद्धां वाचा सत्कृतां आमन्त्र्य - संबोध्य वैदेह्याः पुत्रोवत्परिग्रहार्थं सान्त्वयामास ॥ ७ ॥ अनसूयां महाभागां तापसीं धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीं अब्रवीदृषिसत्तमः ॥ ८ ॥ अनन्तरं तां अनसूयां, उच्यमानलक्षणां वैदेही प्रति- गृह्णीष्वेत्यब्रवीत् ॥ ८ ॥

  • तं – अत्रि अनु – अनुसृत्य ।

481 अस्मा- ङ. 5 'महाभागां- ङ. 'समनु- ङ. RAMAYANA-- VOL. [1]I 2 गच्छामि- ङ.. संवृत्र:-ङ. ' सर्वमर्थ्य -ङ' 31