पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

500 दण्डकारण्यप्रवेश: [अयोध्याकाण्ड: "अलङ्गुरु च तावत् त्वं प्रत्यक्षं 'मम, मैथिलि ! प्रीतिं जनय मे, बत्से ! 2 दिव्यालङ्कारशोभिनी ॥ ११ ॥ प्रीतिं जनयेति । अलङ्कृतत्वद्दिव्यरूपानुभावनेनेति शेषः ॥ सा तदा समलङ्कृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा पादौ रामं त्वभिमुखी ययौ ॥ १२ ।। तथा तु भूषितां सीतां ददर्श वदतांवरः । राघवः प्रीतिदानेन तपस्विन्याः, जहर्ष च । १३ ।। न्यवेदयत् ततः सर्वं सीता रामाय मैथिली । प्रीतिदानं तपस्विन्याः वसनाभरण स्रजाम् ॥ १४ ॥ सर्व न्यवेदयदित्यस्यैव प्रपश्चनं - प्रीतिदानमित्यादि ॥ १४ ॥ प्रहृष्टस्त्वभवत् रामः लक्ष्मणश्च महारथः । मैथिल्याः सत्क्रियां दृष्ट्वा ' मानुषेषु सुदुर्लभाम् ।। १५ ।। मानुषेषु - मनुष्यलोकेषु ।। १५ ।। + ततः स शर्वरीं प्रीतः पुण्यां शशिनिभाननाम् | अर्चितस्तापसैः ' सर्वैः उवास रघुनन्दनः ॥ १६ ।। तस्यां राज्यां व्यतीतायां ' अभिपिच्य हुताग्निकान् | आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् || १७ || आपृच्छेवामिति । वनान्तरगमनार्थमिति शेषः ।। १७ ।।

शर्वरी उवास इत्यन्वयः | अलङ्कुरु-आत्मानमिति शेष:- गो. + शशिनिभाननां सीतां प्रति प्रीतः 3 तस्यै-ड. स्रजम् ड मानुषेष्वति-ङ. S 8 प्रभातायां हु. १ अभिषिक्तान्- ङ. 9 देवि-ड.. ' सर्वा-ड.. " सिद्धैः-ङ. ० ननः- रू.