पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९ सर्गः]
25
बह्वेवं विलपन् राजा पुनर्मूर्छामुपागमत्


तथा ! कुब्जावाक्यमहाग्रह इत्यनेन कुब्जावाक्यादेवं प्रवृत्तिः कैकेय्या इति राज्ञाऽवगतमिति गम्यते । वरः वेला यस्य स तथा ।[१]प्रव्राजनेति 'ण्यासश्रन्थो युच्' इति युच् ॥ ३१ ॥

[२]अशोभनं योऽहमिहाद्य राघवं
दिदृक्षमाणो न लभे सलक्ष्मणम् ।
इतीव राजा विलपन् महायशाः
पपात तूर्णं शयने स मूर्छितः ॥ ३२ ॥
इति विलपति पार्थिवे प्रणष्टे
करुणतरं [३] द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी
भयमगमत् पुनरेव राममाता ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनषष्टितमः सर्गः


द्विगुणं भयमिति । पूर्वं- रामस्य वने किं भविष्यतीति भयं स्थितं, इदानीं भर्तुश्च काऽवस्था भविष्यतीति भयान्तरं च प्राप्तेत्यर्थः । लोल (३३)मानः सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे एकोनषष्टितमः सर्गः


  1. अत्र तिलके 'यतो रामप्रव्राजनसमुद्रात् कालकूटमिव जातेति कतकः’ इत्यनूद्यते । परं त्विदं मातृकायां नोपलक्ष्यते । एतद्दृष्ट्या यतः रामप्रव्राजना-इति अन्वय ।
  2. सलक्ष्मणं राघवं दिदृक्षमाणोऽपि त न लभे इति यत् तदशोभनं । इवेत्येवार्थे ।
  3. पूर्वं २०तमसर्गे ’अत्यन्तं निगृहीताऽस्मि’ (श्लो. ४२) इत्यादिना रामविवासे
    स्वस्या भयं प्रकटितं कौसल्यया । रामविवासे निर्णीते च दशरथमेवावलम्बनं मन्यमानायाः कौसल्यायाः तस्यापि पतनशंकया द्विगुणं भयमित्युक्तम् ।