पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१ सर्ग:]
37
रामं वनं प्रेषयता त्वया सर्वे वयं हताः


धर्मबलमपीत्याह- अधर्ममित्यादि । अधर्मं-अधर्मप्रवृत्तं लोकमपि धर्मे तु योजयेत् ; किमु तस्य घर्मनिष्ठतायाम् ॥ १९ ॥

नन्वसौ काञ्चनैर्बाणैः महावीर्यो महाभुजः ।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २० ॥

 महाबलत्वञ्चानुभवसिद्धमेवास्यापीत्याह-नन्वित्यादि । काञ्चनैः-काञ्चनरुषितपुङ्खैः । युगान्तः - तत्कालः ॥ २० ॥

स तादृशः सिह्मबलः वृषभाक्षो नरर्षभः ।
स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ २१ ॥

 तर्हि तादृशः कथं राज्यं न गृह्णाति स्वबलादेवेत्यत्राह - स तादृश इत्यादि । त्वया स्वयं स्वपुत्रो हतः - भ्रष्टराज्यः कृतः । तेन तु धर्मप्रधानत्वात् त्वद्वचनात् बलात्कारो न क्रियते । पुत्रः पित्रा हत इत्यत्र दृष्टान्तः - जलजेनेत्यादि । जलजः - मत्स्यः, स यथा आत्मजानेव भक्षयति तद्वदित्यर्थः ॥ २१ ॥

[१]द्विजातिचरितो धर्मः शास्त्रदृष्टः [२]सनातनः ।
यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ २२ ॥


  1. धर्मनिरते पुत्रे त्वया विवासिते सति द्विजातिचरितः -शिष्टत्रैवर्णिकाचरितः शास्त्रदृष्ट: सनातनो धर्मः ते यदि - अस्ति किमित्यर्थेऽव्ययमिदम् - गो. यद्वा नकारोत्राध्याहर्तव्यः । तेधर्मनिरत इत्यत्र अधर्मनिरत इति च्छेदः । शास्त्रदृष्टः द्विजातिचरितः- राजर्षिभिराचरितः सनातनो धर्मः ते पुत्रे यदि न स्यात्, तर्ह्यधर्मनिरते तस्मिन् त्वया विवासिते तद्युक्तं भवेत्, न चैवमिति भावः - ती. अथ वा-'द्विजातिचरितो धर्मः' इति कथ्यमानः धर्मः- समनन्तरश्लोकोक्त एव विवक्षितः । एतादृशो धर्मः ते यदि, तर्हि भवतैव सोऽपि नाशित इत्यर्थः । अत्र तृतीयगतेः बन्धुजनस्य अभावः पूर्वमेव सिद्ध इत्यभिप्रायेण तदनुत्कीर्तनम् । कैकेयीबन्धुजनकेकयादिराजवत् कौसल्यापितॄणां दशरथस्य च व्यवहारसम्बन्धः तदा नासीदित्यवगम्यते । अत एव प्रथमसर्गे रामाभिषेकाय राज्ञामाह्वानप्रकरणे केकयजनकयोरेव प्रस्तावो दृश्यते (अयो. 1-48)। अथ वा कौसल्यायाः ज्येष्ठपत्नीत्वात् वृद्धात्वात् तज्जनकानां अतिक्रान्तत्वमप्यूहितुं शक्यते । एवं पत्या बन्धुभिश्च परित्यक्तायाः स्त्रियः पुत्र एव गतिरिति धर्मः अस्त्येव भवतोऽपि । भवताऽप्यङ्गीकृत इति भावः । स तु धर्म; भवतैव नाशित इति भावः ॥
  2. पुरातनैः-ङ.