तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यदनेन कृतं पूर्वं अज्ञानात् शब्दवेधिना ॥ ४ ॥
तस्य चिन्तयमानस्येति । एवमतिघोरदुःखसाघनं इह जन्मनि किं वा दुष्कृतं कृतमभूत् इति चिन्तयमानस्येत्यर्थः । यत्-पापं कृतमिति – मुनिकुमारवधरूपमित्यर्थः । शब्दमेव लक्ष्यं प्राप्य विध्यतीति शब्दवेधी राजा, तत्साघनं बाणं च ॥ ४ ॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥ ५ ॥
दह्यमानः स शोकाभ्यां कौसल्यामाह भूमिपः ।
वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ ६ ॥
अवाङ्मुख इति । स्वकृततदप्रियस्मरणलज्जया, भीत्या च ॥
प्रसादये त्वां, कौसल्ये ! रचितोऽयं मयाऽञ्जलिः ।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ ७ ॥
परेष्विति । शत्रुष्वपीत्यर्थः ॥ ७॥
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा ।
घर्म विमृशमानानां प्रत्यक्षं, देवि ! दैवतम् ॥ ८ ॥
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा ।
नार्हसे विप्रियं वक्तुं [१] दुःखिताऽपि सुदुःखितम् ॥ ९ ॥
दृष्टः लोकः परोऽवरश्च यया सा तथा ॥ ९ ॥
- ↑ त्वदपेक्षया सुतरां दुःखितम् । भवत्यास्तु पुत्रवियोगमात्र शोकः, मम तु
तेन सह 'अहमेव तस्य कारणमभवम्' इति शोकातिशयोऽपि ॥