पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमा प्रस्तावना आपादचूडमनवद्येऽस्मिन् रमणीये रामायणे विशिष्यत पवायमयोध्याकाण्डः इतरकाण्डेभ्यः बहुभिः कारणै:- सर्वाङ्गीण- सुन्दरेऽपि शरीरे मुखमिव - इति पूर्वसंपुटप्रस्तावनायामेव प्रास्तावि। तदेतस्य अयोध्याकाण्डस्यातिविस्तृतस्य विषयानुगुणतो विमर्शने-रामचित्रकूटवासान्तः एको घट्टः, तदनन्तरं भरता गमनादिरपरश्च घट्टः विविक्ततयोपलभ्यत एव स्वरसतः । तत्रादिमो घट्टः पूर्वसंपुढे क्रोडीकृतः, अपरश्चास्मिन् संपुटे ॥ तत्राद्ये भागे रामायणप्रधाननायकस्य श्रीरामस्य कल्याण गुणा: यथा व्यक्तीभूयात्मानं प्रदर्शयन्ति, तथाऽस्मिन् भागे तेन सह- किमुत ! ततोऽप्यतिशयेन–भरतकल्याणगुणा: व्यक्तीभवन्ति । रामोऽपि हि भरतस्यानवद्यं गुणं अभिवीक्ष्य विस्मयमग्नो भवति, यन्मूलतया च वदिष्यति अग्रे 'न सर्वे भ्रातरस्तात ! भवन्ति भरतोपमाः +' इति । एवमस्य भागस्य भरतगुणप्रकाशकस्य 'भरत काण्डः' इति कथनमपि युक्तमिव ।

  • अश्रोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमंब्रवीत् ।

शृण्वन्तु मे परिषद: ! मन्त्रिणः श्रेणयस्तथा ॥ अयो, 111-24. न याचे पितरं राज्यं नानुशासामि मातरम् । आर्य परमधमेश नानुजानामि राघवम् ॥ यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ॥ धर्मात्मा तस्य तथ्येन आतुर्वाक्येन विस्मित: । उवाच राम.. 11 ↑रामा युद्ध. 18-15. (vii) ,,--111-25. ,, - 111-26. , - 111-27. ठ*