पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३ सर्गः]
53
किन्तु कश्चिन्मुनिसुतः हतोऽशानात् मया तदा


 आशाकृतां – आशा - आशनं - प्राशनं, आशा-तद्विषयिण्याशा, तया कृतां; तन्त्रावृत्त्यादेरन्यतम एषितव्यः ; बुभुक्षाकृतामिति यावत् ॥

नूनं न तपसो वाऽस्ति फलयोगः श्रुतस्य वा ।
पिता यन्मां न जानाति शयानं पतितं भुवि ॥ ४२ ॥

तपसः श्रुतस्य वेति । मामकस्येति शेषः, पित्र्यस्य चेत्यप्यविरोधः ॥

जानन्नपि च किं कुर्यात् अशक्ति [१]रपरिक्रमः ।
भिद्यमानमिवाशक्तः त्रातुमन्यो [२] नगो नगम् ॥ ४३ ॥

 अशक्तिरपरिक्रम इति । वृद्धान्धत्वादित्याशयः । वातादिना भिद्यमानं नग-वृक्षमित्यर्थः ॥ ४३ ॥

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व, राघव !
न त्वामनुदहेत् क्रुद्धः वनं वह्निरिवैधितः ॥ ४४ ॥

एघितः-वर्धितः ॥ ४४ ॥

इयमेकपदी, राजन् ! यतो मे पितुराश्रमः ।
तं प्रसादय गत्वा त्वं न त्वां [३] संकुपितः शपेत् ॥ ४५ ॥

 इयमित्यादि । यया एकपद्या मे पितुराश्रमः प्राप्यते, सेयमेकपदी - सूक्ष्ममार्गः, 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च’ ; तथा गत्वा तं प्रसादय, यथा चेत् त्वां न संकुपितः शेपेत् ॥

विशल्यं कुरु मां, राजन् ! मर्म मे निशितः शरः ।
रुणद्धि, मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ ४६॥


  1. अपरिक्रमः - संचरणशक्तिरहित इत्यर्थः
  2. नगः-गजो वा,
  3. स कुपितः-च.