पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३ सर्गः]
55
स विद्धो मर्मणि मया जहौ प्राणान् तपोधनः


न द्विजातिरहं, राजन् ! मा भूत् ते मनसो व्यथा |
[१] शूद्रायामस्मि वैश्येन जातः, जनपदाधिप ! ॥ ५१ ।।
इतीव वदतः कृच्छ्रात् बाणाभिहतमर्मणः ।
विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ॥ ५२ ॥
तस्य [२][३] त्वाताम्यमानस्य तं बाणमहमुद्धरम् |
स मामुद्वीक्ष्य संत्रस्तः जहौ प्राणान् तपोधनः ॥ ५३ ॥

 आताम्यमानस्य | ताम्यत इति यावत् । मामुद्वीक्ष्य संत्रस्त इति— प्राणहरत्वादेव। तपोधन इति । तपोधनकुमार इति यावत् [४]

जलार्द्रगात्रं तु विलप्य [५] कृच्छ्रं
मर्मव्रणं सन्ततमुच्छ्वसन्तम् ।
ततः सरय्वां तमहं शयानं
समीक्ष्य [६] भद्रे! सुभृशं विषण्णः ॥ ५४ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिषष्टितमः सर्गः

 अथ कौसल्यां प्रति मुनिकुंमारासुक्षयान्तव्यापारजस्वशोकानुवादः - जलार्द्रेत्यादि । कृच्छ्रं मर्मव्रणं प्राप्य, विलप्य सन्ततमुच्छ्वसन्तं, ततः - तदनन्तरं सरय्वां-तत्तीरे मृत्वा शयानं तं वीक्ष्य, हे भद्रे ! अहं सुभृशं विषण्णोऽभवम् । घर्म (५४)मानः सर्गः ॥ ५४ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे त्रिषष्टितमः सर्गः


  1. 'शूद्राविशोस्तु करणः' ।
  2. आनम्यमानस्य-व्यथया सङ्कुचिताङ्गस्य-गो.
  3. त्वानम्यमानस्य, नानद्यमानस्य-ङ.
  4. स्वयं नायं तपोधन इत्यभिप्रायेण एवं व्याख्या । परन्तु अनन्तरसर्गाद्यश्लोके 'यधमप्रतिरूपं तु महर्षेः ' इति वाक्यं चिन्तनीयमत्र ।
  5. कृच्छ्रात्-ङ,
  6. भद्रेऽस्मि-ङ