पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४ सर्गः]
61
मुनिस्तु मद्वचः श्रुत्वा सोढुं शोकं न चाशकत्


यदेतदशुभं कर्म न त्वं मे कथयेः स्वयम् ।
फलेन्मूर्धा स्म ते, राजन् ! सद्यः शतसहस्रधा ॥ २३ ॥

 स्वयमेवागत्य मे न कथयेर्यदि स्म; वाक्यालङ्कारे स्मशब्दः । फलेत् – विशीर्येत् । मच्छापेनेति शेषः ॥ २३ ॥

[१] क्षत्रियेण वधः, राजन् ! वानप्रस्थे विशेषतः ।
ज्ञानपूर्वं कृतः स्थानात् च्यावयेदपि वज्रिणम् ॥ २४ ॥

 ज्ञानपूर्वत्वे तु सद्योऽनर्थप्राप्तिरेव तत्कर्मफलमित्याह – क्षत्रियेणेत्यादि । विशेषत इति । अन्धतोऽनाथे इति शेषः । ज्ञानपूर्वं कृतो यद्ययं वधः स्यात्, तदाऽयं मत्कोपेन वज्रिणमपि स्थानात् च्यावयेत् पातयेत्, किमु त्वादृशमित्यर्थः ॥ २४ ॥

[२] सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानात् विसृजतः शस्त्रं तादृशे [३]ब्रह्मचारिणि ॥ २५ ॥

 एवं स्वकोपेन तत्कालानाशमुक्त्वा पुत्रकोपेनापि तत्कालानाशः अज्ञानमूलत्वादित्याह- सप्तधेत्यादि । स्वापेक्षया तपोन्यूनत्वात् सप्तधेति । ज्ञानात् विसृष्टमिति । यदीति शेषः ।। २५ ।।

अज्ञानाद्धि कृतं यस्मात् इदं तेनैव जीवारी ।
अपि ह्यद्य कुलं न स्यात् राघवाणां, कुतो भवान् ? ॥ २६ ॥

 ते - तवेदं कृतं कर्म यस्मादज्ञानात् तेन हि-तेनैव हेतुना जीवसे-जीवसीति यावत् । अपीति । यदि ज्ञानपूर्वमपीदं स्यात्, तदा राघवाणां कुलमेव न स्यात्, कुतो भवान् जीवेत् ॥ २६ ॥


  1. प्रजापालननिरतस्य क्षत्रियस्य अनपराधिसामान्यप्रजावध एव दोषावहः, वानप्रस्थे,
    तत्रापि बुद्धिपूर्वं कृतस्तु वधः - वज्रिणमपि स्थानात् च्यावयेत् ।
  2. सप्तधा-बहुधेत्यर्थः-गो
  3. ब्रह्मवादिनि-ङ, च.