यदि चेत् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति ॥ ३४ ॥
[१]स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥ ३५ ॥
ननु भरताभिषेकसाधनेऽपि कथं रामज[२]नाशप्रसंगनिवृत्तिरित्यत्र राज्ये सति त्वत्पुत्रस्य प्राबल्यात् स्वयमेव नाशो [३]भरताद्भविष्यतीत्याह-यदीति । धर्मादिति । पितृदीयमानत्वरूपादिति यावत् । रामस्य सहजो रिपुरिति । भविष्यतीति शेषः । किं तत इत्यत्राह-समृद्धेत्यादि । समृद्धार्थस्य त्वत्पुत्रस्य वशे स्थितः नष्टार्थो रामः कथं जीविष्यति । स्वयमेव शनैर्नङ्क्ष्यतीत्यर्थः ॥ ३५ ॥
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ॥
यदेवं अतो रामवृद्धिं निवार्य रक्षणीयस्तव पुत्र इत्याह-अभि-द्रुतमिति । अरण्ये सिंहेनाभिद्रुतं गजयूथपमिव रामेण-राज्यप्राप्तया प्रबलेन प्रच्छाद्यमानं-अभिभूयमानं भरतं तदभिषेकनिरोधेन त्रातुमर्हसि ॥ ३६ ॥
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
राममाता सपत्नी ते कथं वैरं न यातयेत् १ ॥ ३७ ॥
- ↑ राज्यानवाप्तावनिष्टमाह-स इति । सहजो रिपुः- सपत्नीपुत्रत्वात्सहजः शत्रुः । ते बालः-भरतः रामस्य वशे कथं जीविष्यति गो.
अन्यथा दुःखमेवेत्याह-स त इति ॥ समृद्धार्थस्य रामस्य वशे नष्टार्थः कथं जीविष्यतीत्यर्थः-ति. पूर्वापरानुरूप्यादिदं युक्तमिव । सहजो रिपुः–सन्निहितदायादित्वात् । - ↑ नाशाप्रवृत्ति-क.
- ↑ भरतादेर्भवि-ग