पुटमेतत् सुपुष्टितम्
100
[अयोध्याकाण्डः
कैकेय्यनुनयः
[१]परिमृश्य च पाणिभ्यां अभिसंत्रस्तचेतनः ।
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥ २७ ॥
किं वदिष्यति ? किं करिष्यति ? इत्यभिसंत्रस्ता चेतनाधीर्यस्य स तथा ॥ २७ ॥
न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
देवि ! केनाभि[२]युक्ताऽसि केन वाऽस्यवमानिता ॥ २८ ॥
यदिदं मम दुःखाय शेषे कल्याणि ! पांसुषु ।
क्रोधं-क्रोधकारणम् । आत्मनि-मयि । अभियुक्ता-कृताभि-योगा । [३]अभियोगः-पराभवः । अवमानं-निन्दा मम दुःख-संपादनाय शेष इति यदिदमस्ति, अतः केनाभियुक्तेत्यादि योजना ॥ २८ ॥
कल्याणचेतसीति । 'अनपकारिणि' इति यावत्। भूतोपहतचित्तेव-ग्रहाभिविष्टेव ॥ २९ ॥
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥ ३० ॥
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि !