विपरीतवत्, स्वार्थे वतिः, बहुश इह विपरीत लक्षये; कार्यवशेनेति शेषः ॥ ५७ ॥
कुतो वा ते भयं जातं या त्वमेवंविधं नरम् ॥ ५८ ॥
राष्ट्रे भरतमासीनं वृणीषे राघवं वने ।
भयं जातमिति । रामादिति शेषः ॥ ५८ ॥
विरमैतेन भावेन त्वमेतेनानृतेन वा ॥ ५९ ॥
यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च ।
एतेन-निर्धूतपतिपत्नीभावलक्षणेन भावेन उपलक्षिता त्वं अतो विरम । यदि भर्तुः, लोकस्य, भरतस्य च प्रियं कार्यं-कर्तव्यं इच्छसि । अपि वा त्वं एतेन–अशक्यार्थवरणद्वारकेण [१]अनृतेन-ममानृतसंपादन-कर्मणा सर्वानर्थमूलेन उपलक्षिता त्वं ततो वा विरम, यदि भर्तुः लोकस्य भरतस्य च प्रियं कार्यं-कर्तव्यमिच्छसि । अत्र यद्वा भट्टो बहु जल्पति । तत्र न किञ्चिदपि सङ्गतं पश्यामः । पतञ्जलिवत् प्रौढ-पक्षान्तरोपन्यास एव तु विपश्चित्प्रेयान् ॥ ५९ ॥
नृशंसे ! पापसंकल्पे ! क्षुद्रे ! दुष्कृतकारिणि ! ॥ ६० ॥
किन्नु [२]दुःखमलीकं वा मयि रामे च पश्यासे ?
अलीकं-अपराधः ॥ ६० ॥
न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ॥ ६१ ॥
रामादपि हि तं मन्ये [३]धर्मतो बलवत्तरम् ।