पुटमेतत् सुपुष्टितम्
१७ सर्गः]
185
स निवर्त्य जनं रामः कैकेय्याः प्राविशद्गृहम्
चतुष्पथान् देवपथांश्चैत्यान्यायतनानि च ।
[१]प्रदक्षिणं परिहरन् जगाम नृपतेः सुतः ॥ १५ ॥
प्रदक्षिणं परिहरन्निति । चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्नित्यर्थः ॥ १५ ॥
स राजकुलमासाद्य मेघसंघोपमैः शुभैः ।
[प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥
आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ।]
[२]वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ १६ ॥
वर्धमानगृहैः-क्रीडागृहैः । परिष्कृतैरुपेतं तत्पितुर्वेश्मेति योजना ॥ १६ ॥
स सर्वा इति । उक्तपञ्चकक्ष्या इत्यर्थः ॥ १७ ॥
- ↑ अप्रदक्षिणं परिहरन् प्रदक्षिणं यथा तथा जगाम-गो. चतुष्पथाद्यपेक्षया स्वस्य दक्षिणभागगमनं परिहरन्-ति. वस्तुतः- प्रदक्षिणं यथा तथा चतुष्पथादीन् स्वदक्षिणभागे परिहरन्-त्यजन् जगामेत्यर्थः
- ↑ वर्धमानगृहैः-वर्धमानलक्षणाधिष्ठानसमेतगृहैः-गो. अत्युन्नतनिर्माणायारब्धगृहैः-ती. वर्धमानगृहैः-दक्षिणद्वाररहितैः । उक्तं च-'पश्चिमद्वारहीनं तु नन्द्यावर्ते प्रचक्षते । दक्षिणद्वारहीनं तु वर्धमानमुदाहृतम् इति-सत्य.
- ↑ सन्नियम्य-ङ.
- ↑ शुद्धान्तःपुर-ङ. च.