पुटमेतत् सुपुष्टितम्
१८ सर्गः]
189
प्रपच्छ कैकेयी रामः राज्ञः शोकस्य कारणम्
कच्चिन्मया नापराद्धमज्ञानात् येन मे पिता ।
कुपितः, तन्ममाचक्ष्व, त्वमेवैनं प्रसादय ॥ ११ ॥
प्रसादयेति । मत्कृतापराधशान्त्या इति शेषः ॥ ११ ॥
शारीरः-शरीव्याधिजः संतापः । मानसः-आधिजोऽभितापः । न बाधते कच्चित् । कुतस्तत्प्रसंग इत्यतः-दुर्लभमित्यादि । मानुष-तनोः पापपुण्यारब्धत्वादित्याशयः ॥ १३ ॥
कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।
शत्रुघ्ने वा महासत्त्वे [३] मातॄणां वा ममाशुभम् ॥ १४ ॥
मातॄणां वेति । विषय इति शेषः । अतोषयन्न कञ्चिदित्यनुकर्षः ॥ १४-१५ ॥
- ↑ सदा मां प्रति वत्सलोऽप्यद्याप्रसन्नमनाः, मां किन्नु नाभिभाषत इत्यन्वयः.
- ↑ विषण्ण-ङ.च.
- ↑ मातॄणामिति निर्धारणे षष्ठी-गो. एतेषां विषये मम-मदीयं अशुभं-अपराधः न कच्चित्
- ↑ अतोषयन्नित्यादेरुत्तरार्धेण वान्वयः । हेतौ शतृ । कुपित इत्युक्तकोपे हेतुः. व्याख्यारीत्या तु अतोषयन्नित्यर्धे भिन्नं वाक्यम्.
- ↑ जीवितं-ङ.