तद्वशप्राप्तं स्वं स्वं भाग्यं-पुण्यफलं सौख्यं उपासते-प्राप्नुवन्ति, इदमपुण्यस्य चोपलक्षणम्, न तु स्वकृतपापपुण्यफलं स्वपित्रादयः । भार्या एकैव तु तस्य तस्य भर्तुर्भाग्यं-पुण्यफलमन्यच्च भर्त्रा सह प्राप्नोति । नान्यस्तस्य पित्रादिः । पित्रादेस्तेन सह कर्मसहत्वाभावात् । यदेवं कर्मतत्फलभोगसहत्वं स्त्रियास्सिद्धं शास्त्रतः, अत एवाहमपि वने वस्तव्यमिति युष्मत्पितृमातृकृतादेशेन युष्मद्विषयकेनापि अर्थादादिष्टवनवासैवेत्यर्थः ॥ ३-५ ॥
न पिता नात्मजो नात्मा न माता न सखीजनः ।
इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥ ६ ॥
यदेवं अतः-न पितेत्यादि । इह लोके प्रेत्य परलोके च नारीणां न पित्रादिर्गतिः । अपि तु पतिरेक एव सदा गतिः ॥ ६ ॥
अतः-यदि त्वमित्यादि । मृद्नन्ती-मृदक्षोदे-मर्दयन्ती ।एतेन पद्भ्यामेव निस्सन्देहं गमिष्यामीत्युक्तं भवति । अतः कथमिदं वनवासदुःखं सहिष्यत इति न चिन्तनीयमिति भावः ॥ ७ ॥