पुटमेतत् सुपुष्टितम्
२७ सर्गः]
291
स्वर्गेऽपि च न काङ्क्षेऽहं वासं राम ! त्वया विना
फलमूलाशना नित्यं भविष्यामि न संशयः ।
[१]न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ १६ ॥
न ते दुःखं करिष्यामीति । अन्नपानविशेषसंपादनेनेति शेषः ॥
इच्छामि सरितः शैलान् पल्वलानि वनानि च ।
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १७ ॥
हंस [२]कारण्डवाकीर्णाः पद्मिनीस्साधुपुष्पिताः ।
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ १८ ॥
'मद्गुः कारण्डवः प्लवः' ॥ १८ ॥
त्वया सह वर्तमाना तस्य वर्षशतस्य व्यतिक्रमं-गमनं न वेत्स्यामि-न स्मरामि । स्वर्गौऽपि न मे मत इति । त्वद्वियुक्ताया इति शेषः ॥ २० ॥
स्वर्गेऽपि च विना वासो भविता यदि, राघव !
त्वया [७]मम, नरव्याघ्र ! नाहं तदपि रोचये ॥ २१ ॥
तदेव विव्रियते—स्वर्गेऽपीत्यादि ॥ २१ ॥