पुटमेतत् सुपुष्टितम्
३४ सर्गः]
351
हाहाकारस्तदा तत्र दारुणः समजायत
न मे तथा, पार्थिव [१]धीयते मनः
महत्सु कामेषु न चात्मनः प्रिये ।
यथा निदेशे तव शिष्टसंमते
व्यपैतु दुःखं तव मत्कृतेऽनघ ! ॥ ५७ ॥
तदद्य नैवानघ ! राज्यमव्ययं
न सर्वकामान्न सुखं न मैथिलीम् ।
न [२]जीवितं त्वामनृतेन योजयन्
वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥
फलानि मूलानि च भक्षयन् वने
गिरींश्च पश्यन् सरितः सरांसि च ।
वनं प्रविश्यैव विचित्रपादपं
सुखीभविष्यामि तवास्तु निर्वृतिः ॥ ५९ ॥
[३]एवं स राजा व्यसनाभिपन्नः
[४] [५]शोकेन दुःखेन च ताम्यमानः ।
आलिङ्गय पुत्रं सुविनष्टसंज्ञः
[६]मोहं गतो नैव [७]चिचेष्ट किश्चित् ॥ ६० ॥
देव्यस्ततो संरुरुदुस्समेताः
[८]तां वर्जयित्वा नरदेवपत्नीम् ।
रुदन् सुमन्त्रोऽपि जगाम मुर्छां
हाहाकृतं तत्र बभूव सर्वम् ॥ ६१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुस्त्रिंशसर्गः