पुटमेतत् सुपुष्टितम्
॥ श्रीः ॥
॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥
श्रीमद्वाल्मीकिरामायणम्
श्रीमन्माधवयोगिविरचितया
अमृतकतकाख्यव्याख्यया युतम्
अयोध्याकाण्डः
प्रथमः सर्गः
[रामाभिषेकचिन्तनम्]
गच्छता मातुलकुलं भरतेन [१] तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥
अमृतकतकव्याख्या
एवं प्रथमकाण्डेन रामप्रसूतिसीतावरणान्ताक्षरार्थकमहाषोढाप्रथमपादार्थरामचरितविस्तारो वर्णितः । अथेदानीं द्वितीयकाण्डेन महाषोढाद्वितीयपादप्रथमाद्यक्षरार्थरामाभिषेकप्रतिबन्धादितद्वनवासान्तव्यापारः प्रतिपाद्यते । तत्राद्येन 'ज्येष्ठं श्रेष्ठगुणैर्युक्तं' 'यौवराज्येन संयोक्तुमैच्छत्' इति संक्षेपोपदिष्टा राजाभिषेकार्हगुणाः प्रतिपाद्यन्ते-गच्छतेत्यादि ।
- ↑ महात्मना-झ.