पुटमेतत् सुपुष्टितम्
४४ सर्गः]
423
इत्यादि तद्वचः श्रुत्वा कासल्या निर्वृतिं ययौ
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम् ।
मुदाऽस्त्रैः [१]प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २९ ॥
मेघराजिरिति सजलत्वांशे दृष्टान्तः ॥ २९ ॥
आश्वासयन्ती विविधैश्च वाक्यैः
वाक्योपचारे कुशलाऽनवद्या ।
रामस्य तां मातरमेवमुक्त्वा
देवी सुमित्रा विरराम रामा ॥ ३० ॥
वाक्योपचारे-वाक्यरचनायां । रामा-स्त्री ॥ ३० ॥
निशम्य तल्लक्ष्मणमातृवाक्यं
रामस्य मातुर्नरदेवपत्न्याः ।
सद्यश्शरीरे विननाश शोकः
शरद्गतो मेघ इवाल्पतोयः ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः
योगौ (३१) मानः सर्गः ॥ ३१ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः
- ↑ प्रोक्षसि पुनः-ङ.