प्रियवादी च भूतानां सत्यवादी च राघवः ।
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ॥ ३३ ॥
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ।
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ॥ ३४ ॥
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ॥ ३५ ॥
कल्याणाभिजनः साधुरदीनात्मा महामतिः ।
द्विजै[१]रभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ॥ ३६ ॥
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ।
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥ ३७ ॥
सङ्ग्रामात्पुनरागमम्य कुञ्जरेण रथेन वा ।
पौरान्[२] सवयसान् नित्यं कुशलं परिपृच्छति ॥ ३८ ॥
सवयसानिति । ‘अच्’ इति योगविभागादच् समासान्तः ॥
शुश्रूषन्ते च वः शिष्याः इति उपाध्यायान् प्रति प्रश्नः । कर्मसु दंशिता वः शुश्रूषन्ते इति क्षत्रवृद्धान् प्रति प्रश्नः । दंशिताः -कवचिताः भृत्या इति शेषः ॥ ४० ॥
- ↑ अभिविनीतः–शिक्षितः ।
- ↑ स्वजनवन्नित्यं-ङ. च.
- ↑ 'शुश्रूषन्ते च वः शिष्याः' इति ब्राह्मणान् प्रति प्रश्नः । वर्मसु दंशिताः-अवहिताः भृत्याः वः सेवन्त इति क्षत्रियान् प्रतिप्रश्नः-ति.दंशिताः-सन्नद्धाः शिष्याः कर्मसु वः शुश्रूषन्ते कच्चिदिति वाऽन्वयः । ‘सन्नद्धो वर्मितः सज्जः दंशितः' इत्यमरः ।
- ↑ कच्चिद्वर्मसु-च.कच्चिद्धर्मेषु-ङ. च.