पुटमेतत् सुपुष्टितम्
५ सर्गः]
45
वसिष्ठमादिशद्राजा तत्तत्कार्यस्य साधने
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ ४५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्थः सर्गः
अभ्यनुज्ञाप्येति । [१]लक्ष्मणद्वारेति शेषः । जानातेः ज्ञपेर्वा हेतुमण्ण्यन्ताल्लयप् | मघा (४५) मानः सर्गः ॥ ४५ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्थः सर्गः
पञ्चमः सर्गः
[अभिषेकपूर्वाङ्गचर्याचरणम् ]
सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ १ ॥
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन !
श्रेयसे राज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥
अथ उपवासस्य पुरोहितेन संकल्पमन्त्रादिसाध्यत्वात् तदर्थं पुरोहितनियोगः–सन्दिश्येत्यादि । उपवासं काकुत्स्थमिति । ‘गति-बुद्धि' इत्याद्यनुवर्तने, 'हृक्रोरन्यतरस्याम्' इति कर्मत्वं अणौ कर्तुः ॥
- ↑ मातृभ्यामिति शेषः-गो. सीतां स्वं चाभ्यनुज्ञाप्य-सीतायै स्वस्मै च मातृभ्यामनुशां दापयित्वा-ति.