द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ।
लोकेषु प्रथितं राजन् ! विप्रैश्च कथितं सदा ॥ ५ ॥
द्वैविध्यमित्यादि । यद्ब्रह्मचर्यं लोकेषु मेखलाजिनादिना सर्वलोकस्य प्रसिद्धं, यच्च विप्रैर्याज्ञवल्क्यादिस्मर्तृभिः कथितमृतुगमनलक्षणं गौणब्रह्मचर्यमस्ति तदिदं द्वैविध्यं-द्विप्रकारकब्रह्मचर्यं च महात्मनस्तस्य भविष्यति । द्वे विधे यस्य तद्द्विविधम् तस्य भाव इति ष्यञ् ॥ ५ ॥
तस्यैवं वर्तमानस्य कालस्समभिवर्तत ।
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ॥ ६ ॥
अथ कथं तथा वनचरस्य यथोक्तगौणब्रह्मचर्यस्य प्रसक्तिरित्यतः तदुपपादनम्–तस्येत्यादि । अग्न्यादिकं शुश्रूषमाणस्य एवं मुख्यब्रह्मचर्ये वर्तमानस्य कालः-कतिपयः समभिवर्तत । 'छन्दसि लुङ्लङ्लिट:' इति भविष्यति लङ्, अडभावश्छान्दसः, समभिवर्तिष्यते-गमिष्यतीत्यर्थः ॥ ६ ॥
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥ ७॥
एतस्मिन्-तस्य ब्रह्मचर्यदशायामित्यर्थः ॥ ७ ॥
तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ।
अनावृष्टिस्सुघोरा वै सर्वभूतभयावहा ॥ ८ ॥
व्यतिक्रमात्-क्षत्रनित्यप्राप्तप्रजापरिपालनवर्णाश्रमशिक्षणादिधर्मबिलोपनादित्यर्थः ॥ ८ ॥
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ।
ब्राह्मणाञ्छ्रुतवृद्धांश्च समानीय प्रवक्ष्यति ॥ ९ ॥
श्रुतेन वृद्धाः श्रुतवृद्धाः ॥ ९ ॥