अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ॥ ५ ॥
[१]अत एव-समरमूर्धनीत्यादि ॥ ५ ॥
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥ ६ ॥
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥ ७ ॥
न चासौ रक्षसां योग्यः, कूटयुद्धा हि ते भृशम् ।
रामनयने काऽनुपपत्तिरित्यतस्तद्वर्णनम्-बाल इत्यादि । ऊनषोडशवर्षत्वादेव बालत्वम् । अत एवाकृत सर्वविद्यश्च । न हि धनुर्वेदे बालस्याधिकारः । अयमेव हेतुरग्रिमविशेषणानामपि सिद्धौ न चासौ रक्षसां योग्य इति । तत्सम्बन्धिनि रण इति शेषः । कुत इत्यतः-कूटेत्यादि । 'कूटं कपटशालादौ' ॥ ७ ॥
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥ ८ ॥
जीवितुं मुनिशार्दूल ! न रामं नेतुमर्हसि ।
तिष्ठतु रामस्य क्षमचिन्ता ; मद्वृत्तान्त एतावानित्याह-विप्रयुक्त इत्यादि ॥ ८ ॥
अथ वा राघवं ब्रह्मन् ! नेतुमिच्छसि सुव्रत ! ॥ ९॥
चतुरङ्गसमायुक्तं मया च सहितं नय ।
अनन्तरोक्तानुपपत्तिपरिहारः-अथवेत्यादि ॥ ९ ॥
- ↑ यतोऽहं सकलसेनापरिवृत आगच्छामि अत एवेत्यर्थः