यदीदं ते क्षमं राजन् ! गमिष्यामि यथाऽऽगतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ ! सुखीभव सबान्धवः ॥ ३ ॥
इदमिति । कुलानुचितार्थानुष्ठानमित्यर्थः । मिथ्याप्रतिज्ञ-इत्यादिः व्यङ्ग्योक्तिः ॥ ३ ॥
तस्य [१]रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना विविशुश्च च भयं सुराः ॥ ४ ॥
धीमत इति । रोषं दृष्ट्वेति शेषः । सुरा भयं विविशुरिति । जगदन्यथाकृतिसमर्थोऽयमद्य च क्रुद्धः किं करिष्यतीति भयम् ॥ ४ ॥
त्रस्तरूपं स विज्ञाय जगत् सर्वं महानृषिः ।
नृपति सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥ ५ ॥
त्रस्तरूपं-भीतस्वरूपं । जगत्-त्रिस्रोतोमात्रं । धरिः-निर्भयः ॥ ५ ॥
इक्ष्वाकूणां कुले जातस्साक्षाद्धर्म इवापरः ।
धृतिमान् सुव्रतःश्रीमान् न धर्मं हातुमर्हसि ॥ ६ ॥
त्रिषु लोकेषु विख्यातो [२]धर्मात्मा इति राधवः ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥ ७ ॥
संश्रुत्यैवंकरिष्यामीत्यकुर्वाणस्य राघव !
इष्टापूर्तबधो भूयात् तस्माद्रामं विसर्जय ॥ ८ ॥
धर्म इवापर इति । इतः पूर्वमिति शेषः । धर्मात्मा इतीति असन्धिश्छान्दसः । स्वधर्मं-सत्यप्रतिज्ञत्वम् ॥ ७ ॥