स्वतः सहस्ररश्मेः कालविशेषो यथा विशेषाभिव्यक्तिकारकः, एवं स्वतो भूरिविक्रमो रामो विद्यासम्बन्धादभ्यधिकं शुशुभे इत्यर्थः ॥ २१ ॥
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ २२ ॥
एवं रामे संप्राप्त (गुरु ?) शिष्यसम्बन्धः कुशिकात्मजो गुरुणा शिष्यस्य गुरुसेवाविषये नियोजनीयानि आदेष्टव्यानि-यानि कार्याणि 'अथ यः पूर्वोत्थायी जघन्यसंवेशी, यावदासीनो बाहुभ्यां प्राप्नुयात्, गच्छन्तमनुगच्छेत्, धावन्तमनुधावेत्' इत्यादीनि तानि सर्वाणि नियुज्य अथ स्वयं तौ चेति त्रयः तां रजनीं तत्र सुखं यथा ऊषुः । रजनीमिति । 'कालाध्वनोः' इति द्वितीया ॥ २२ ॥
दशरथनृपसूनुसत्तमाभ्यां
तृणशयनेऽनुचिते तदोषिताभ्याम् ।
कुशिकसुतवचोऽनुलालिताभ्यां
सुखमिव सा विबभौ विभावरी च ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वाविंशः सर्गः
सत्तमाभ्यामित्यादौ 'चतुर्थ्यर्थे बहुलं छन्दसि' इत्यत्र बहुलग्रहणात् षष्ठ्यर्थेऽपि चतुर्थी । तृणाद्यनुचितशयनोषितयोरपि विभावर्यास्सुखवद्विभातत्वे हेतुः-कुशिकसुतवचोऽनुलालितत्वम् । विबभाविति । व्युष्टेति यावत् । गुरु (२३) मानः सर्गः ॥ २३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वाविंशः सर्गः