ददौ नागसहस्रस्य बलं चास्याः पितामहः ॥ ६॥
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ।
तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् ॥ ७॥
[१]खज्जुपुत्राय सुन्दाय ददौ भार्या यशस्विनीम् ।
खञ्ज्वोः पुत्रः खञ्जुपुत्रः । ननु सुन्दोऽसुरः, सुकेतुर्यक्षः, स कथमसुराय दद्यात् भार्यात्वेन ? यक्षस्यापि देवयोनिमात्रत्वात् । नैर्ऋतानामपि तथात्वादेवैकजात्यं, तदुचितो यौनसम्बन्धः ॥ ७ ॥
कस्य चित्त्वथ कालस्य यक्षी पुत्रमजायत ॥ ८ ॥
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् ।
अजायतेति । जनी [२]जनने, जननं-गर्भविमोचनम् ; प्रासोष्टेति यावत् ॥ ८ ॥
सुन्दे तु निहते राम ! साऽगस्त्यं मुनिपुङ्गवम् ॥ ९ ॥
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ।
भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत ॥ १० ॥
'शापाद्राक्षसोऽभवत्' इत्युक्ते किंशापादित्यतः–सुन्दे तु निहत इत्यादि । अगस्त्येनेति शेषः । इच्छति-इच्छति स्म । जातसंरम्भा-स्वभर्तृवधजकोपवती । अत एव-भक्षार्थमभ्यधावतेति । एतेन यक्षरक्षोऽसुरादेः पुरुषादत्वादिधर्मवत्वेन च साजात्यं यौनसम्बधार्हं द्रष्टव्यम् ॥ १० ॥
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ।
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ॥ ११ ॥
राक्षसत्वं भजस्वेति । शुद्धदेवयोनिस्वरूपं मुक्त्वेति शेषः ॥ ११ ॥