यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम !
तावद्ददामि तत्सर्वं, शबला दीयतां मम ॥ २२ ॥
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह,[१]राजन् ! कथञ्चन ॥ २३ ॥
एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ २४ ॥
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् ! विविधाश्व क्रियास्तथा ॥ २५ ॥
[२]अदोमूलाः क्रियाः सर्वा मम राजन् ! न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिपञ्चाशः सर्गः
अदोमूला इति । एतन्मूला इत्यर्थः । कामान् दोग्धुं शीलमस्या इति-कामदोहिनी-"सुप्यजातौ" इति णिनिः । तरु (२६) मानः सर्गः ॥ २६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिपञ्चाशः सर्गः
अथ चतुष्पञ्चाशः सर्गः
[विश्वामित्रबलविमर्दनम्]
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
तदाऽस्य शबलां राम ! विश्वामित्रोऽन्वकर्षत ॥ १ ॥