एवं सामदानाभ्यां शबलाया अप्राप्तौ दण्डोपाये प्रवृत्तिर्विश्वामित्रस्य –कामधेनुमित्यादि । यदा न त्यजते-तङार्षः, न त्यजति स्म, तदा अन्वकर्षत । बलात्कारणेति शेषः ॥ १ ॥
राज्ञो भृताः-भ्रियन्त इति भृताः-भृतकास्सेवका इति यावत् । ह्वियेय-कर्मणि संप्रश्ने लिङ्–कथमपह्नियेयेत्यर्थः । भृशदुःखिता-भृशं दुःखिता-वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥
किं मयाऽपकृतं तस्य महर्षेर्भावितात्मनः ।
[३]यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥
किमपकृतं-किपराद्धम् ॥ ४ ॥
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन !
जगामानिलवेगेन पादमूलं महात्मनः ॥ ५ ॥
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ ६ ॥
शतशो भृत्यानिति । आवारकानिति शेषः । पादमूलं–पादसमीपम् ॥ ६ ॥
भगवन् ! किं परित्यक्ता त्वयाऽहं ब्रह्मणः सुत !
यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ ७॥