तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ।
पृष्ट्वा सर्वत्र कुशलमृचीकं [१]तमिदं वचः ॥ १२ ॥
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ।
पशोरर्थे महाभाग ! कृतकृत्योऽस्मि भार्गव ! ॥ १३ ॥
पशोरर्थे-प्रयोजनाय सुतं विक्रीणीषे यदि, तदा कृतकृत्योऽस्मि । भार्गवेति गोत्रनाम ॥ १३ ॥
सर्वे परिसृता देशा[२]याज्ञीयं न लभे पशुम् ।
दातुमर्हसि मूल्येन सुतमेकमितो मम ॥ १४ ॥
याज्ञीयं-यज्ञाय हितं । 'तस्मै हितम्' इति [३]छः, वृद्धिरार्षी । इतः-सार्वविभक्तिकस्तसिः, एतेष्वित्यर्थः ॥ १४ ॥
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
नाहं ज्येष्ठं नरश्रेष्ठ ! विक्रीणीयां कथञ्चन ॥ १५ ॥
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥ १६ ॥
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ।
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप !
तस्मात्[४]कनीयसं पुत्रं न दास्ये तव पार्थिव ! ॥ १७ ॥
शुनक इति कनिष्ठपुत्रनाम ॥ १७ ॥