[१]उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः ।
[२]नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ५ ॥
सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य राजर्षेबृहद्रथ इति स्मृतः ॥ ६ ॥
बृहद्रथस्य शूरोऽभून्महा[३].वीरः प्रतापवान् ।
महा[४]वीरस्य धृतिमान् सुधृतिस्सत्यविक्रमः ॥ ७ ॥
सुधृतेरपि धर्मात्मा [५] दुष्टकेतुस्सुधार्मिकः ।
[६]दुष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः [७]प्रतिन्धकः ।
[८]प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथस्सुतः ॥ ९ ॥
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः ।
देवमीढस्य [९]विबुधो विबुधस्य महीध्रकः ॥ १० ॥
महीध्रकसुतो राजा कीर्तिरातो महाबलः ।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत ।
स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥
तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः ।
ज्येष्ठोऽहमनुजो आता मम वीरः कुशध्वजः ॥ १३ ॥
तस्येति । ह्रस्वरोम्णः इत्यर्थः ॥ १३ ॥
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः ।
कुशध्वजं समावेश्य [१०]भारं मयि, वनं गतः ॥ १४ ॥