हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ ५ ॥
ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ।
हिरण्यमिति रजतं । पूर्वमेव (३०३ पुटे) तथा प्रतिपादितम् ॥५॥
दत्त्वा बहु धनं राजा समनुज्ञाप्य पार्थिवम् ॥ ६ ॥
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।
पार्थिवं-दशरथं ॥ ६ ॥
राजाऽप्ययोध्याधिपतिस्सह पुत्रैर्महात्मभिः ॥ ७ ॥
[१]ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।
बलैः-चतुरङ्गैः, अनुगैः किंकरैश्च सहितस्तथा ॥ ७ ॥
गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥ ८ ॥
घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।
गच्छन्तं दशरथं इति शेषः । पक्षिणः करटादयः ॥ ८ ॥
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ ९ ॥
एवमान्तरिक्षं दुर्निमित्तम् । अथ भौमं मृगप्रदक्षिणगमनं सुनिमित्तम्-भौमा इत्यादि ॥ ९ ॥
तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥ १० ॥
किमिदं हृदयोत्कंपि ? मनो मम विषीदति ।
तान्-शुभाशुभनिमित्तविशेषान् । हृदयं उत्कंपयितुं शीलमस्येति हृदयोत्कंपि इदं किमिति । दुःखोदर्कं सुखोदर्कं वा भविष्यतीति मे मनो विषीदति । अशक्यनिश्चयादिति शेषः ॥ १० ॥
- ↑ एतदनन्तरं 'वाहिनीं महतीं कर्षन् कीर्तिमांश्च ययौ तदा ।' इत्यधिकं-ङ.