पुटमेतत् सुपुष्टितम्
७५ सर्गः]
503
स्कन्धे चासज्य परशुं गृहीत्वा वैष्णवं धनुः
यत्त्वया धनुषो भेदनं कृतं तदद्भुतमचिन्त्यं च भवत्येव । अतः-तच्छ्रुत्वेत्यादि । गृह्य-गृहीत्वा ॥ २ ॥
तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥३॥
जामदग्न्यं -जमदग्नेस्स्वपितुरागतं । आगतार्थे ष्यञ् आर्षः ॥ ३ ॥
प्रपूरणं प्रागुक्तार्थं । वीर्यवद्भिः श्लाघ्यं वीर्यश्लाघ्यं ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।
[३]विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥५॥
तद्वचनं । द्वन्द्वयुद्धवचनमित्यर्थः ॥ ५ ॥
क्षत्त्ररोषात्प्रशान्तस्त्वं ब्राह्मणश्च महायशाः ।
बालानां मम पुत्राणां अभयं दातुमर्हसि ॥६॥
क्षत्त्ररोषादिति । तज्ज[४]क्षत्त्रवधादित्यर्थः ॥ ६ ॥
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
सहास्राक्षे प्रतिज्ञाय । [५]शस्त्रं निक्षिप्तवानसि ॥ ७ ॥
- ↑ एतदनन्तरं 'भीतो यदि धनुस्त्यक्ता निर्जितोऽस्मीति वा वद' इत्यधिकं-ङ. झ.
- ↑ श्लाघ्यस्य राघवः-ङ.ज.
- ↑ अदीन-त्रैकालिकदीनताभावविशिष्टः, विषण्णवदनः-उदासीनचित्तः-शि.
- ↑ क्षत्रिय-घ.
- ↑ ब्रह्माण्डपुराणे (3.47) परशुरामः स्वपितॄणां वचनात् शस्त्रं निक्षिप्तवानिति वर्तते । महाभारते तु (वन. 117) ऋचीकनियमनादिति वर्तते । अत्र तु इन्द्रनियमनादिति । अतः स्वपितॄणां देवानां च सन्निधौ-इति विरोधः परिहरणीयः । तत्र चेन्द्रस्य प्रधान्यादत्र तस्य निर्देश इति ।