स. | श्लो. | |
351 | -16 |
पादौ कृत्वाऽथ शीर्षतः । शीर्षतः-शाय्यायां शीर्षस्थाने पादौ कृत्वा निद्रया अपहृता-निद्रया गृहीतेत्यर्थः–ती. शीर्षतः-शिरसि पादौ कृत्वा स्थितेति शेषः । मध्याह्नः शयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन नम्रं शिरः पादयोः संसक्तमभवदित्यर्थः-गो. दिवास्वापरूपपापेन, शय्यायां पादस्थाने मस्तककरणेन चाशुचित्वं सूचितम् । केचित्तु उपविष्टाया एव प्रह्वतया पादपर्यन्तं शिरस्सम्बन्धेन शीर्षे पादसम्बधः, तेन ब्राह्मणस्य शूद्रस्पर्श इव शिरसः पादस्पर्शेऽशुचित्वं सूचितम् । तपसि स्थितायाः शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः । परे तु भूशयनेऽपि दक्षिणपूर्वदिशोः शिरःस्थापनयोग्यतायाः स्मृतिषूक्तेः तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्त्येवेत्याहुः-ति. अत्र ब्रह्माण्डपुराणस्य मध्यमभागगतपञ्चमाध्यायस्य श्लोकोऽयं अवधेयः- निद्रयाऽपहृता देवी शिरः कृत्वा तु जानुनि । एवञ्च मध्याह्ने शयनस्य निषिद्धत्वेन जानू आकुंच्योपविष्टा दितिः निद्रापरवशाऽभूत् । तदा च केशाः विशीर्णाः पादयोरपतन् । तथा च शिरसः पादसंपर्कः समजनीत्यशुचित्वं स्पष्टमुपपादितम् ॥ |
पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/६१
पुटमेतत् सुपुष्टितम्
52
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/66/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D_%28%E0%A4%85%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%95%E0%A4%A4%E0%A4%95%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A4%AE%E0%A5%8D%29_%28%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%83_%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_-_%E0%A4%AC%E0%A4%BE%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%83%29.pdf/page61-837px-thumbnail.pdf.jpg)