पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(६८) हैमशब्दानुशासनस्य निप्रेभ्यो घनः । २ । २ । १५ । समस्तव्यस्तविपर्यस्ताभ्यां निपाभ्यां परस्य हिंसार्थस्य हन्तव्यस्थं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहृन्ति। हिंसायामित्येव ? रागादीनिहन्ति ॥ १५ ॥ विनिमेय--घृतपणं पणि-व्यवहाः । २ । २ । १६ । विनिमेयः क्रयविक्रयोऽर्थः, दूतपणो धृतजेयं तौ पणिव्यवहृद्यप्यौ वा कर्म स्याताम् । शतस्य शतं वा पणायति. दशानां दश वा व्यवहरति । विनिमेयधूतपण- मिति किम् ? साधून् पणायति ॥ १६ ॥ उपसगर्दैवः । २ । २ । १७ ॥ उपसर्गात् परस्य दिवो व्याप्यौ विनिसेयघृतपणौ वा कर्म स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गा दिति किम् ? शतस्य दीव्यति ॥ १७ ॥ न । २ । २ । १८ । अनुपसर्गस्य दिवो व्याप्यौ विनमेयश्चतपणौ कर्म न स्याताम् । शप्तस्य दीव्यति ।। १८ ॥ करणं च । २ । २ । १९ । द्विः करणं कर्म करणं च युगपत् स्यात् । अक्षान् दीव्यति, अज्ञेदव्यति, अक्षर्देवयते मैत्रञ्चैत्रेण ॥ १९ ॥ अधेः शीङ्स्थाऽऽस आधारः । २ । २ । २८ ।। आधे संबद्धानां शीङ्स्थाsऽसामाधारः कर्म स्यात् । ग्राममधिशेते, अधितिष्ठति, अध्यास्ते घा ।। २० ।।