पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३॥ प्रकृतिं दृष्टवन्त इत्यर्थः । ततःपरं तच्छरीरकं सर्वविधकारणं सकलकारणाधिष्ठितारं समाभ्यधिकशून्यं परमात्मानमपि दृष्टवन्त इत्याह यः कारणानीति । उक्तोऽर्थः । (३) ब्रह्मोपादानम् ; उपादानतावच्छेदिका प्रकृतिरित्युक्तं भवति । प्रकृतेर्ब्रह्मापृथक्सिद्धत्वममानतां व्यवहारस्तावत् , प्रपञ्चं प्रति प्रकृतिः कारणमिति । जानतां तु स व्यवहार औपचारिकः, परमतस्यांशतः स्वीकारमूलको वा । वस्तुस्थितिमनुसृत्य मुख्यस्तु व्यवहारः प्रपञ्च प्रति प्रकृतिविशिष्टं ब्रह्मोपादानमिति । न चोपादानोपादेययोरमेदहानिः; प्रपञ्चस्यापि ब्रह्मापृथक्सिद्ध तया तद्विशिष्टब्रह्मण एक कार्यतया तदक्षतेः । प्रकृतिरियं द्रव्यभूताऽपि उक्तविधापृथक्सिद्धिमत्तया शक्तिर्भवितुमर्हति ' एवं शक्तिभूताया अस्याः द्रव्यत्वं स्वगुणनिरूढामित्यनेन दर्शितम् । स्वपदेन परमात्मादौ सत्त्वरजस्तमोरूपप्राकृतगुणासंभवः सूच्यते । प्रकृतेर्गुणानाच्च भेदप्रदर्शनेन, गुणसमुदायः प्रकृतिरिति सांख्यमतञ्च व्युदस्यते । नन्वेवमचेतनस्य कस्यचिदुपादानतावच्छेदकत्वे सर्वोपादानत्वं कथं बह्मण इति शङ्कापरिहारपूर्वकं शक्तिशक्तिमतोरनयोः संबन्धोऽपि विशदीक्रियते उत्तरार्धे । यानि कारणानि प्राक् प्रस्तुतानि, स्वभावो नियतिर्भूतानीति, तानि सर्वाणि प्राकृतान्येव । प्रकृत्यनन्तर्गतश्च यदि कश्चित् स्वभावः, स पुरुषेऽन्तर्भविष्यति । यथेषां कारणानां देवापृथक्सिद्धत्वम् , तथा कालस्यापि द्रव्यस्थानाद्यन्तस्य क्षणलवकाष्ठामुहूर्तादिपरिणामशालिनः तदपृथक्सिद्धत्वमेव एवं देवमनुष्यतिर्यवक्स्थावरात्मना जायमानस्य जीवात्मनोऽपि । एवं स्वापृथक्सिद्ध प्रकृतिपुरुषकालस्यास्य ब्रह्मणः न दाहजनकोष्ण्यरूपशक्तिसंपन्नस्याग्नेरिवाधिष्ठातृत्ववैकल्यम् , येन स्वातन्त्र्यहानिरन्यापेक्षा च प्रसजेत् । तदुच्यते अधितिष्ठत्येक इति । एवश्चास्य सर्वेशितृत्वादुपादानवमिव निमित्तत्वमपि निरूढमिति एक एव सर्वविधकारणत्वसंपन्न इति पूर्वपृष्टसाकारपुष्कलमिदं परं ब्रह्मेति । अत्रौत्तरार्धे तमित्यध्याहारेण अपश्यन्नित्यन्तस्यानुषङ्गो वा; योऽधितिष्ठति, तस्य देवात्मनः शक्तिमपश्यन्नित्यन्वगो वाऽस्तु । यद्वा उत्तरार्धमिदमुत्तरश्लोकेनान्वितमिति, मा भूत् तमित्यध्यहारः, किंतु अपश्यविनित्यन्तानुषङ्गमात्रम् । पूर्वत्र तु पक्षे उत्तरश्लोकस्य तदुत्तरश्लोकेन एकवाक्यतया तं देवात्मानं प्रकृति पञ्चपर्वामधीम इत्यन्वयोऽपि स्यात् । तेन पूर्वोक्तापृथक्सिद्धि निबन्धनः आत्मप्रकृत्योः सामानाधिकरण्येन निर्देशोऽपि दर्शितो भवति ।