पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

६० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान् विनियोजयेद्यः । तेषाममावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥ आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः । लक्षणयोगं प्राप्य प्रारब्धत्वगुणयुक्तानि कर्माण्यवलम्ब्य वर्तमानान् सर्वान् भावान् कामान् स्वस्मै विनियोजयति-भुङ्क्ते । स तेषां कर्मफलभोगानामवसाने फलाप- वर्गितया कर्मणां नाशात् , 'तस्य तावदेव चिर' मित्युक्तरीत्या कर्मक्षये ब्रह्म याति प्राप्नोति । स तत्त्वतः परमात्मनोऽन्य एव । अतो नैक्यशङ्का कार्येति (३. ४) परमात्मोपासनमपि स्वात्मोपासनपूर्वकं कर्तव्यमित्याह आदिरिति । सः पूर्वमन्त्रोक्तजीवः संयोगे समीचीनपरमात्मयोगे तत्प्राप्तौ आदिकारणम् – प्रधान- हेतुरिति यावत्----कालत्रयपरिच्छिन्नात् परत्वेन भिन्नत्वेन निरवयवत्वेन शास्त्रदृष्टः । भावः । , गुणैश्च रागद्वेषादिभिः सहायैः व्यष्टिं कुरुते देव इति । विज्ञानभगवतो व्याख्यानशैली प्रायोऽस्मद्भाष्यानुरोधिनी । तत्कर्मेत्यस्य तदर्थं कर्म तत्कर्म भगवदाराधनरूपं कर्मेति तत्र व्याख्यानम् । एवमपि सुवचम् ---तत् पूर्वोक्तं पृथ्व्याप्यादिजगद्विवर्तीपयोगि भोगप्रदं काम्यं कर्म बहोः कालात् कृत्वा, भूयः पश्चात् तादृशकर्मकारणादात्मानं विनिवर्त्य, आत्मतत्त्वस्य ब्रह्मतत्त्वेन योगं शेषशेषिभावात्मक बुद्ध्वा, अन्यविधानि सात्त्विक त्यागरूपगुणान्वितानि आरभ्य सर्वं तत्रोपयोजयेत् यः इत्येवम । कश्चित्तु, एकेन द्वाभ्यां त्रिभिरष्टभिर्वा जन्मभिर्यथायथं तत्तदभाग्यपरिपाककालानुरोधेन ' इति एकनेत्याद्यंशं व्याख्याति । कृतकर्मनाश इत्यस्य कृतः एवं निष्पादितः कर्मनाशो येनेति विग्रहेण स इत्येतद्विशेषगत्वं भाव्यम् । स तत्त्वतोऽन्य इत्यनेन, एवमज्ञो भूत्वा सांसारिक कर्म कृत्वा क्लेशमनुभूय विरज्य सत्कर्मकरणेन भगवत्तत्त्वमाराध्य मुक्ति प्राप्तुं प्रयस्यतः पुरुषस्य कथं जगत्कारणतत्त्वतासंभव इति प्रदर्शितमिति ध्येयम् । (३. ४.) आदिरित्यादेः परमात्मपरता योजना एवं भवेत् -- 'संयोग एषां न त्वात्मभावात् इति प्रागुक्ततया संयोगनिमित्तताऽभिमतानामप्यादिहेतुर्देव एवं कालत्रयपरिच्छिन्नादन्योऽनवयव इति । तथासति तं देवं पूर्वमुपास्य, तदनन्तरे विश्वधाम आत्मस्थं ज्ञात्वेति उपरितन- वाक्यार्थानन्वयः प्रसजति । अतः आदिरिति मन्त्रः पूर्वप्रकृतजीवपरतयैव व्याख्यातः ।