पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रोः श्वेताश्वतरोपनिषदर्थसंग्रहकारिकाः १. बृहदारण्यकान्तासु गतास्वीशादिषु क्रमात् । श्वेताश्वतरमन्त्रोपनिषदेकादशी स्थिता ।। २. भोक्तृभोग्यात्मचिदचिदन्तरात्मैव कारणम् । अष्टाङ्गयोगतो जीवं समीक्ष्यैष निरीक्ष्यते ।। ३. एकोऽसौ भगवान् मुक्तेः पन्था जन्मलयादिकृत् । अकारार्थोऽयमग्न्यादिदेवतादिजगन्मयः ।। ४. कमीर्हपरतन्त्राणुजीवतत्त्वविलक्षणः । ब्रह्मादिकृत् प्रपत्त्येकवश्यो विश्वफलप्रदः ॥ ५. श्वेताश्वतरखण्डानां षट्केनेत्थं समीक्षितः । शिवरुद्रादिशब्दोक्त्या भगवान् पुरुषोत्तमः ।। शुभमस्तु