पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २१९ ॥ अथ चतुर्थः खण्डः ॥ हृदयस्य मध्ये लोहितं मांसपिण्डम् , यस्मिंस्तदहरं पौण्डरीकं एवं खण्डत्रयेण परस्य ब्रह्मणो जगत्कारणत्वं तत्प्रयुक्तदोषशङ्कानिवारणार्थं विश्वविलक्षणत्वञ्चोक्तम् । अपवर्गोपायश्च सत्याद्यनुगृहीतं तदुपासनमिति च संक्षेपत उक्तम् । अथ उपासनविशेषान् पञ्च (पञ्चमे !) प्रपञ्चयितुं उपासनस्थानेषु प्रधानं हृदयकमलं प्रस्तुत्य तत्रावस्थितस्य जीवस्य परमात्मोपासिसिपोपजननाय प्रकृतिसम्बन्धसंकुचितज्ञानस्यास्य ज्ञानसंकोचविकासतारतम्यकृतो जागराद्यवस्थायोगः चतुर्थैन खण्डेन प्रतिपाद्यते । हृदयस्य मध्ये लोहितं मांसपिण्डमिति । अत्रायं हृदयशब्दः शरीरे वक्षःस्थलोपलक्षितप्रदेशपरः । तस्य मध्ये लोहितं रक्तवर्णं मांसपिण्डं स्थितमित्यर्थः । यस्मिन् तद्दहरं पौण्डरीकमिति । पुण्डरीकमेव पौण्डरीकम् । उपमानोपमेयभावेन पुण्डरीकसंबन्धीति वाऽर्थः । 'पद्मकोशप्रतीकाशं हृदयञ्चाऽप्यधोमुखम् । इति श्रूयते । यस्मिन् मांसपिण्डे पौण्डरीकं पद्मकोश- एवं खण्डत्रयेणेति । अयं भावः--सुबालोपनिषद्गतिं सरसं मनसि निधायैव सूत्रकारों नूनं शारीरकं निबबन्ध । तत्र हि प्रथमेऽध्याये जगत्कारणत्वं नारायणस्य निरूप्य द्वितीयेऽध्याये सर्वजगन्निमित्तोपादानस्य चेतनाचेतनाविशेषोत्प्रेक्षितानेकदोषशङ्कापरिहारेण सर्ववस्तुवैलक्षण्यं व्युत्पाद्य, तादृशस्य तस्य प्राप्त्यर्थोपासनविषयतृष्णाभिवर्धनाय जीवस्य जागरस्वप्नसुषुप्त्याद्यवस्थावस्थितदुरवस्थास्थापनपूर्वं परस्यैतद्विलक्षणस्य विषये बहून् भक्तिमार्गान् साङ्गांस्तृितीयेऽध्याये संप्रतिबोध्य तुरीये तत्प्राप्तिप्रकारे भगवान् बादरायणः प्रास्तौषीत् । इह चोपनिषदि प्रथमं खण्डद्वयेन परमपुरुषस्य अद्वारक सद्वारकञ्च स्थितं जगज्जन्मादिकारणत्वमभिधाय तृतीयेन तस्य चेतनाचेतनलक्षण्यमतएवोपामनार्हत्वनोपपाद्य तदुपासिसिषोत्सादनाय चतुर्थेन जीवस्य जागरादिदुरवस्था: प्रज्ञाप्य पञ्चमेन तदुपासनप्रकारान् उपदिश्य शेषमपि शेषेषु खण्डेषु समुपवर्णितमिति । तदित्यस्य, 'यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेदम' इति दहरपुण्डरीकत्वेन प्रसिद्धमित्यर्थः । पौण्डरीकमिति । पुण्डरीकमित्यपि पाठोऽस्ति । सर्वथा इदमेव हृदयबोधकं विशेष्यपदम् ।