पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तद् विष्णोः सूरिदृश्यं पदमुपलभतेऽव्यक्तपर्यन्तभेदी नाभिन्नो न द्वितीयः स तव न मृतिमान् नामृतत्वत्समानः ॥ १५४

त्र्यक्षः प्राग् भूतमृत्युस्त्वजनि, निविविशे यत्र भीते स, योऽपि क्रोधात् रुद्रं ललाटादसृजदमुमपि त्वं विधत्से विरिञ्चम् । स्रष्टा साक्षात् समष्टेः श्रितरम ! तमसः पारवर्ती च विष्णुः दिव्यो देवोऽनारात्मा पुरुष इति मितोस्यत्र नारायणश्च ॥ १५५

अग्निरहस्यम् हृद्यागं ह्यर्चनीये त्वयि नियतमुशन्त्यागमा बाह्ययागात् भूयोभोग्योपक्लृप्तिप्रगुणितविभवं श्रीनिधे ! भावतुष्टे । बाह्यकत्वङ्गमुक्त्वेष्टकचितमथ वक्त्त्येवमग्ने रहस्यं विद्यारूपाग्निशस्त्राद्यखिलपरिकरं धीक्रतुं तद्विशिष्टम् ॥ १५६

षट्त्रिंशत् स्युः सहस्राण्यधिमहि पुरुषस्यायुषोऽह्वां तदेत- द्वैशिष्ट्यात् क्लृप्तभेदं भवति गदितसंख्यानचित्याग्निरूपम् । चेतो वाक्प्राणचक्षुश्श्रुतिषु किमपि वा कर्म यद्वाऽथवाऽग्निः तत्रैकैकाग्निसाध्यः श्रितरम ! भवतः प्रीणनो धीक्रतुः स्यात् ॥ १५७

चित्याग्न्यादौ धरित्रीप्रभृतिदृशियुताः सर्वभूताभिसंप- त्याप्त्यै लोकम्पृणायां श्रितरम ! विदधद्धयग्निवाय्वादिदृष्टीः । दुष्मापं दक्षिणावत्क्रतुभिरविदुषा त्वत्पदं विद्यया तत् त्वारोहन्त्यस्तकामा इति वदति परं ब्राह्मणं त्वत्प्रभावम् ।।

अन्नं स्याद् मण्डलं तद् वपुरिदमपि तत्तद्गतः पूरुषोऽत्ता सर्वो भूत्वा च सोऽक्त्यखिलमपि भवेत् तत् यथोपासते तम् । इत्युक्त्वा त्रीष्टकैकाष्टकविधममृतोऽग्निश्च मृत्युच्च सूर्य- स्वाक्षिस्थं तं विदंस्त्वामिति महितरम ! ब्राह्मणं पूर्वमाह ॥ १५९