पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३१ सुबालोपनिषत् विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ७. बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यो बुद्धौ यो बोद्धव्ये यो ब्रह्मणि यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ८. अहङ्कारोऽध्यात्ममहङ्कर्तव्यमधिभूतं रुद्रस्तत्राधिदेवतम् ; नाडी तेषां निबन्धनम् । योऽहङ्कारे योऽहङ्कर्तव्ये यो रुद्रे यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपसीताजरममृतमभयमशोकमन्तम् । ९. चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्तत्राधिदैवतम् : नाडी तेषां निवन्धनम् । यश्चित्ते यश्चेतयितव्ये या क्षेत्रज्ञे यो नाडयां यः प्राणे यो बुद्धिः व्यवसायवृत्तमनसोऽनुग्राहकं महत्तत्त्वम् | बोद्धव्य निश्चेतन्यं रूपादि । महत्तत्वब्रह्मदिनाऽपि ( दीनामपि ? ) वो द्रव्यत्वादिविरोधः पूर्ववदनुसंधेयः । ब्रह्मणि चतुर्मुखे । अहंकारः अनात्मनि आत्माभिमानवृत्तेर्मनसोऽनुग्राहकं महत्कार्यं तत्त्वम् । अहङ्कर्तव्यमधिभूतम् । भूतपरिणामे देहे वर्तमानः जीवात्मैव स्थूलोऽहमित्यभिमानविषयत्वादहकर्तव्यशब्दार्थः । तत्र सविषयेऽहंकारे रुद्रोऽधिदैवतम् । महदभिमानी चतुर्मुखपुत्रो रुद्रो महत्कार्यस्याहङ्कारस्याधिदैवतमित्युपपन्नम् । अत एव हि दीक्षिते स्वस्मिन् ब्राह्मणत्वाभिमानेन रुद्रतनुरित्युच्यते । चिन्तावृत्तिमत् मन एव हि चित्तम् । चिन्ता च स्मरणं वा अपेक्षित- बुभुत्सा वा | ‘एवं सञ्चिन्तयन् विष्णुम् ', ' मानसं विष्णुचिन्तनम् । 'चिन्तयन्ती जगत्सूतिम्', 'चिन्तयामास को न्वेतत् प्रयुञ्जोयादिति प्रभुः', 'तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः' इत्यादिप्रयोगदर्शनात् । क्षेत्रज्ञो जीवात्मा स्वयमेव । यद्वा, 'क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे । तानि वेत्ति स योगात्मा ततः 6 -