पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/३२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुबालोपनिषत् २३५ प्राणमय इन्द्रियात्मा मनोमयः संकल्पात्मा विज्ञानमयः कालात्मा , आत्मा । अन्नमयादिशब्दानां परमात्मसामानाधिकरण्यमात्मशब्दस्वारस्यादवगम्यते । न च मृदात्मको घट इतिवत् आत्मशब्दः स्वरूपमात्रपरः । प्राणमय इन्द्रियात्मेत्यनेनैकरीत्यात् । न हि प्राणापानादिपञ्चवृत्तिप्राण इन्द्रियस्वरूपः । प्राणमयः मुख्यप्राणशरीरकश्च सः इन्द्रियात्मा प्राणबद्धानामपीन्द्रियाणामात्मा। मनोमयः मनःप्रभृतिप्रधानपर्यन्ततत्त्वशरीरक इत्यर्थः । 'भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्मृतः' इति श्रीविष्णुपुराणवचनोपबृंहितत्वात् । संकल्पात्मा सङ्कल्पशब्दो मनोवृत्तिजन्यज्ञानानां प्रदर्शनार्थः कामः सङ्कल्यो विचिकित्सा श्रद्धा धृतिरधृतिः हीर्धीर्भीरित्येतत् सर्वं मन एवे ति श्रुतानां मनोमूलानां कामसंकल्पादीनाम् आत्मा सत्ताहेतुः विज्ञानमयः जीवात्मशरीरकश्च सः। कालात्मा आदित्यादिक्षेत्रज्ञशरीरतया अहोरात्रादिकालचक्र- निर्वाहकः स: । यद्वा आकलनस्य वा आकलयितृणां वा सर्वेषामात्मा निर्वाहकः । अन्तर्यामित्वेन स्थितो जीवानामर्थपरिच्छेदसामर्थ्यमापादयतीति यावत् । - . प्राणमय इन्द्रियात्मेत्यादी प्राणाधीनस्थितिप्रतिकेन्द्रियादिग्रहणवत् इहापि देहाधीनस्थिति - प्रवृत्तिकभूतविशेषग्रहणं युक्त चेत् , भाष्यमिदं तदनुरोधेन नेयम् । ननु अन्नमयादिशब्दाः तैत्तिरीय इव देहादि मात्रपराः । तेषाञ्च यथाक्रमं भूतादिनिर्वाहकत्वादात्मत्वं विमृश्यम् । अन्नरसमयस्य देहस्यानेकप्राण्युत्पत्तिहेतुत्वात् अनेकपाणि सेव्यत्वात् पाञ्चभौतिकस्य सर्वस्य देहोपचयाथर्थतया देहशेषिकत्वाच्च भूतात्मत्वं देहस्य । विज्ञानमयस्य; च कालात्मत्वं भूतभविष्यदादिविविधकालसद्भावस्य विज्ञानैकनिरूप्यत्वात् - इत्यत्राह अन्नमयादिशब्दानामिति । तैत्तिरीयेऽपि. 'तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा' इत्यादौ अन्नमयादिपदस्य देहादिमात्रपरत्वेऽपि । एतमन्नमयमात्मानमुपसंक्रम्य' इत्यादौ विशिष्टपरमात्मपरत्वमेवेति ध्येयम् । आत्मशब्दस्वारस्यादिति । सर्वनयनः प्रशास्तेत्येतत्सामानाधिकरण्यादेवान्नमयादिपदानां परमात्मपरत्वं सिद्धम् । यदि देहादिमात्रपरत्वप्रत्याशया प्रशास्तेत्यनेनैकवाक्यत्वत्यागो मन्यते, तदाऽपि भूतात्मेत्यादिगत आत्मशब्द एव तां प्रत्याशां प्रतिरुणद्धीति भावः । भूतात्मेति । ग्राह्यात्मा ग्राहकात्मा ग्राह्यग्राहकरूपप्रपञ्चकारणप्रधानत्मा ग्रहीतृजीवात्मा ग्राहयितृहषीकेशरूपश्च तत्राऽत्मा दर्शित इति प्रतीयते । -