श्रीपद्मावतीसमेतश्रीनिवासपरब्रह्मणे नमः कृष्णयजुर्वेदीय-श्वेताश्वतरोपनिषत् ॐ-पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते इति, भद्रं कर्णेभिरिति, सह नाववत्विति च शान्तिः ।। श्रीमते रामानुजाय नमः येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। श्रीरङ्गरामानुजमुनिवरविरचितं प्रकाशिकाभिधानं भाष्यम् । अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । श्वेताश्वतरमन्त्राणां विवृतिं करवाण्यहम् ॥ स्वेतरसमस्तचेतनाचेतनविलक्षणपरमात्मस्वरूपनिर्दिधारयिषया इयमुपनिषत् श्री श्रीनिवासपरब्रह्मणे नमः । श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । श्वेताश्वतरोपनिषद्भाष्यपरिष्कारः यः श्वेताश्वतरोदितश्चिदचितोरीशः पदं योगिनाम् - मुरूपच्या व जगन्मयोऽत्यणुचिदानन्त्यापहः संश्रयः । देवं कालहिरण्यगर्मगिरिशाद्यापारमेतं परं शेषाकारसुपर्णशैलनिलयं श्रीशं गिरित्रं श्रये ॥ विदितं खलु भृगुर्वारुणिः वरूणं पितरमुपसृत्य, यत इमानि भूतानि जायन्ते, येन जीवन्ति, यत् प्रयन्त्यभिविशन्ति, तद् ब्रह्मेत्यधीत्य, तादृशं ब्रह्मैव किमिति निर्धारयितुमनाः तपस्तप्त्वा क्रमेण अन्नप्राणमनोविज्ञानव्यतिरिक्तमानन्दं ब्रह्म निश्चिकायेति । तथैव रीत्या बहवो
पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/९६
एतत् पृष्ठम् परिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7b/%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A4%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf/page96-877px-%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A4%E0%A4%BE%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%B0%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%AD%E0%A4%BE%E0%A4%B7%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf.jpg)