त्यनुवाकं सि हे व्याघ्र इत्यनुवाकमस्मे देवास इति चतुरो मन्त्रांश्च पठेयुः । तत्तदन्तेऽक्षतारोपणं चाऽऽचारात् ।
अथ कन्यादानम् ।
अत्र रात्रावपि स्नानमाह वृद्धयाज्ञवल्क्यः--
"ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु वै । |
व्यासः--
"महानिशा तु विज्ञेया मध्ययामद्वयं निशि । |
मध्ययामयोस्तु विशेषमाहात्रिः--
"रात्रौ स्नानं यदि भवेत्पश्यन्नग्निं समाचरेत् । |
प्रयोगदर्पणे स्मृत्यन्तरे--
"कन्यादानं निशीथे चेद्दिवा भोजनमिष्यते । |
विवाहे प्रधानद्वयं कन्यादानं पाणिग्रहणं च । आद्यं कन्यापितरं प्रति । कन्यादानस्य प्राधान्यं तु--
"ब्राह्मे विवाहे शक्तिविषयेणालंकृत्य दद्यात्" इति धर्मसूत्रात् |
इत्याश्वलायनसूत्राच्च दानविवाहशब्दयोः सामानाधिकरण्यप्रतीतेः ।
पाणिग्रहणस्य तु--
"पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते" इति सूत्रात् |
इति धर्मसूत्राच्च प्राधान्यं ज्ञेयम् । चौलकर्मोपनयनगोदानविवाहकालानभिधाय तेषां पुरस्ताच्चतस्र आज्याहुतीर्जुहुयादित्येतदाश्वलायनसूत्रमप्यत्र मानम् । अन्यथा तच्छब्देन परामृष्टाद्विवाहात्पूर्वमुक्तस्य होमस्यासंगत्यापतेः । न हि कन्यादानात्पुरस्तादेव ता आहुतयः सन्ति ।